॥ देवीसूक्तम् ॥श्रीगणेशाय नमः ।नमो देव्यै महादेव्यै शिवायै सततं नमः ।नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥ १॥रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः ।ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः ॥ २॥कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः ।नैऋर्त्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः ॥ ३॥दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ।ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ॥ ४॥अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः ।नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ॥ ५॥या देवी सर्वभूतेषु विष्णुमायेति शब्दिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ६॥या देवी सर्वभूतेषु चेतनेत्यभिधीयते ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ७॥या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ८॥या देवी सर्वभूतेषु निद्रारूपेण संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ९॥या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ १०॥या देवी सर्वभूतेषु छायारूपेण संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ११॥या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ १२॥या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ १३॥या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ १४॥या देवी सर्वभूतेषु जातिरूपेण संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ १५॥या देवी सर्वभूतेषु लज्जारूपेण संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ १६॥या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ १७॥या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ १८॥या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ १९॥या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ २०॥या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ २१॥या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ २२॥या देवी सर्वभूतेषु दयारूपेण संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ २३॥या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ २४॥या देवी सर्वभूतेषु मातृरूपेण संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ २५॥या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ २६॥इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या ।भूतेषु सततं तस्यै व्याप्त्यै दैव्यै नमो नमः ॥ २७॥चित्तिरूपेण या कृत्स्नमेतद्व्याप्य स्थितां जगत् ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ २८॥स्तुता सुरैः पूर्वमभीष्टसंश्रयात्तथा सुरेन्द्रेण दिनेषु सेविता ॥करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहन्तु चापदः ॥ २९॥या साम्प्रतं चोद्धतदैत्यतापितैरस्माभिरीशा च सुरैर्नमस्यते ।या च स्मृता तत्क्षणमेव हन्ति नः सर्वापदोभक्तिविनम्रमूर्तिभिः।। 30।।
Astro Shaliini Malhottra
9910057645
Recent Comments