स्मरण शक्ति प्राप्त करने के लिए याज्ञवल्क्य द्वारा रचित भगवती सरस्वती की स्तुति याज्ञवल्क्य उवाच ।कृपां कुरु जगन्मातर्मामेवं हततेजसम् ।गुरुशापात्स्मृतिभ्रष्टं विद्याहीनं च दुःखितम् ॥ ६॥ज्ञानं देहि स्मृतिं देहि विद्यां देहि देवते ।प्रतिष्ठां कवितां देहि शाक्तं शिष्यप्रबोधिकाम् ॥ ७॥ग्रन्थनिर्मितिशक्तिं च सच्छिष्यं सुप्रतिष्ठितम् ।प्रतिभां सत्सभायां च विचारक्षमतां शुभाम् ॥ ८॥लुप्तां सर्वां दैववशान्नवं कुरु पुनः पुनः ।यथाऽङ्कुरं जनयति भगवान्योगमायया ॥ ९॥ब्रह्मस्वरूपा परमा ज्योतिरूपा सनातनी ।सर्वविद्याधिदेवी या तस्यै वाण्यै नमो नमः ॥ १०॥यया विना जगत्सर्वं शश्वज्जीवन्मृतं सदा ।ज्ञानाधिदेवी या तस्यै सरस्वत्यै नमो नमः ॥ ११॥यया विना जगत्सर्वं मूकमुन्मत्तवत्सदा ।वागधिष्ठातृदेवी या तस्यै वाण्यै नमो नमः ॥ १२॥हिमचन्दनकुन्देन्दुकुमुदाम्भोजसंनिभा ।वर्णाधिदेवी या तस्यै चाक्षरायै नमो नमः ॥ १३॥विसर्ग बिन्दुमात्राणां यदधिष्ठानमेव च ।इत्थं त्वं गीयसे सद्भिर्भारत्यै ते नमो नमः ॥ १४॥यया विनाऽत्र सङ्ख्याकृत्सङ्ख्यां कर्तुं न शक्नुते ।काल सङ्ख्यास्वरूपा या तस्यै देव्यै नमो नमः ॥ १५॥व्याख्यास्वरूपा या देवी व्याख्याधिष्ठातृदेवता ।भ्रमसिद्धान्तरूपा या तस्यै देव्यै नमो नमः ॥ १६॥स्मृतिशक्तिर्ज्ञानशक्तिर्बुद्धिशक्तिस्वरूपिणी ।प्रतिभा कल्पना शक्तिर्या च तस्यै नमो नमः ॥ १७॥सनत्कुमारो ब्रह्माणं ज्ञानं पप्रच्छ यत्र वै ।बभूव जडवत्सोऽपि सिद्धान्तं कर्तुमक्षमः ॥ १८॥तदाऽऽजगाम भगवानात्मा श्रीकृष्ण ईश्वरः ।उवाच स च तं स्तौहि वाणीमिति प्रजापते ॥ १९॥स च तुष्टाव तां ब्रह्मा चाऽऽज्ञया परमात्मनः ।चकार तत्प्रसादेन तदा सिद्धान्तमुत्तमम् ॥ २०॥यदाप्यनन्तं पप्रच्छ ज्ञानमेकं वसुन्धरा ।बभूव मूकवत्सोऽपि सिद्धान्तं कर्तुमक्षमः ॥ २१॥तदा त्वां च स तुष्टाव सन्त्रस्तः कश्यपाज्ञया ।ततश्चकार सिद्धान्तं निर्मलं भ्रमभञ्जनम् ॥ २२॥व्यासः पुराणसूत्रं समपृच्छद्वाल्मिकिं यदा ।मौनीभूतः स सस्मार त्वामेव जगदम्बिकाम् ॥ २३॥तदा चकार सिद्धान्तं त्वद्वरेण मुनीश्वरः ।स प्राप निर्मलं ज्ञानं प्रमादध्वंसकारणम् ॥ २४॥पुराण सूत्रं श्रुत्वा स व्यासः कृष्णकलोद्भवः ।त्वां सिषेवे च दध्यौ तं शतवर्षं च पुष्क्करे ॥ २५॥तदा त्वत्तो वरं प्राप्य स कवीन्द्रो बभूव ह ।तदा वेदविभागं च पुराणानि चकार ह ॥ २६॥यदा महेन्द्रे पप्रच्छ तत्वज्ञानं शिवा शिवम् ।क्षणं त्वामेव सञ्चिन्त्य तस्यै ज्ञानं दधौ विभुः ॥ २७॥पप्रच्छ शब्दशास्त्रं च महेन्द्रस्च बृहस्पतिम् ।दिव्यं वर्षसहस्रं च स त्वां दध्यौ च पुष्करे ॥ २८॥तदा त्वत्तो वरं प्राप्य दिव्यं वर्षसहस्रकम् ।उवाच शब्दशास्त्रं च तदर्थं च सुरेश्वरम् ॥ २९॥अध्यापिताश्च यैः शिष्याः यैरधीतं मुनीश्वरैः ।ते च त्वां परिसञ्चिन्त्य प्रवर्तन्ते सुरेश्वरि ॥ ३०॥त्वं संस्तुता पूजिता च मुनीन्द्रमनुमानवैः ।दैत्यैश्च सुरैश्चापि ब्रह्मविष्णुशिवादिभिः ॥ ३१॥जडीभूतः सहस्रास्यः पञ्चवक्त्रश्चतुर्मुखः ।यां स्तोतुं किमहं स्तौमि तामेकास्येन मानवः ॥ ३२॥इत्युक्त्वा याज्ञवल्क्यश्च भक्तिनम्रात्मकन्धरः ।प्रणनाम निराहारो रुरोद च मुहुर्मुहुः ॥ ३३॥तदा ज्योतिः स्वरूपा सा तेनाऽदृष्टाऽप्युवाच तम् ।सुकवीन्द्रो भवेत्युक्त्वा वैकुण्ठं च जगाम ह ॥ ३४॥महामूर्खश्च दुर्मेधा वर्षमेकं च यः पठेत् ।स पण्डितश्च मेधावी सुकविश्च भवेद्ध्रुवम् ॥ ३५॥इति श्रीब्रह्मवैवर्ते महापुराणे प्रकृतिखण्डे नारदनारायणसंवादेयाज्ञवल्क्योक्त वाणीस्तवनं नाम पञ्चमोऽध्यायः ॥
Recent Posts
Archives
- October 2024
- September 2024
- August 2024
- July 2024
- June 2024
- May 2024
- April 2024
- March 2024
- February 2024
- January 2024
- June 2023
- April 2023
- February 2023
- January 2023
- December 2022
- November 2022
- September 2022
- August 2022
- July 2022
- June 2022
- April 2022
- March 2022
- February 2022
- January 2022
- December 2021
- November 2021
- October 2021
- September 2021
- August 2021
- July 2021
- June 2021
- May 2021
- April 2021
- March 2021
- February 2021
- January 2021
- December 2020
- November 2020
- October 2020
- September 2020
- August 2020
- July 2020
Recent Comments