Select Page

॥ श्रीनरसिंह ऋणमोचन स्तोत्र ॥श्रीगणेशाय नमः ।ॐ देवानां कार्यसिध्यर्थं सभास्तम्भसमुद्भवम् ।श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ १॥लक्ष्म्यालिङ्गितवामाङ्गं भक्तानामभयप्रदम् ।श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ २॥प्रह्लादवरदं श्रीशं दैतेश्वरविदारणम् ।श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ ३॥स्मरणात्सर्वपापघ्नं कद्रुजं विषनाशनम् ।श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ ४॥अन्त्रमालाधरं शङ्खचक्राब्जायुधधारिणम् ।श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ ५॥सिंहनादेन महता दिग्दन्तिभयदायकम् ।श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ ६॥कोटिसूर्यप्रतीकाशमभिचारिकनाशनम् ।श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ ७॥वेदान्तवेद्यं यज्ञेशं ब्रह्मरुद्रादिसंस्तुतम् ।श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॐ ॥ ८॥इदं यो पठते नित्यं ऋणमोचकसंज्ञकम् ।अनृणीजायते सद्यो धनं शीघ्रमवाप्नुयात् ॥ ९॥॥ इति श्रीनृसिंहपुराणे ऋणमोचनस्तोत्रं सम्पूर्णम् ॥